मूलम्
अथपुण्यापुण्यरूपकर्मशक्तिनिबन्धनाः। सर्वा व्यवस्थाः सिध्यन्ति कृतमीशेन तादृशा॥
मूलम्
पुरुषार्थानुरूपा सा प्रकृतिः परिणंस्यते। तथा व्यवस्था कर्मसंस्कारैरभिसंस्कृता॥
मूलम्
परिणामविशेषोऽस्ति देशकालव्यवस्थया। विषादिदूषितस्यान्नपानादेर्दुःखकारणम्॥
मूलम्
दृश्यते परिणामश्च सुखिहेतुस्तथा भुवि। महौषधाप्यायितस्याप्यन्नादेः देशकालयोः॥
मूलम्
अत्रोच्यतेऽनभिज्ञस्त्वं पुण्यापुण्यस्वरूपयोः। पुण्यापुण्यस्वरूपे हि शास्त्रैकाधिगते स्थिते॥
मूलम्
शास्त्रं चानादिनिधानाच्छिवन्नपाठसमागतम्। अनाघ्रातप्रमादादिदोषं वेदाभिधं मतम्॥
मूलम्
तच्चाह कर्मणी पुण्यापुण्ये तस्याखिलेशितुः। आराधनं तदन्यच्च कोऽत्र पर्यनुयुज्यताम्॥
टीका
श्रीभा.[2-2-3]
मूलम्
अनुग्रहान्निग्रहाच्च सुखदुःखे हि तत्फले। इत्यौपनिषदैकान्तः बादरायणसम्मतः॥
मूलम्
नच प्रीतेरपूर्णत्वं नच कोपात्सदुःखता। फलप्रदित्सारूपत्वादुभयोरपि कर्मणोः॥