मूलम्
सामान्येनेश्वरः कर्ता ह्यङ्कुराणां जलं यथा। विना तेन तृणस्याग्रं न चलेदिति कीर्त्यते॥
मूलम्
तथा कारयिता चानुमन्ता साक्षीत्यपीष्यते। करुणावसरस्तत्र श्रीभाष्योक्तोऽवधार्यताम॥
टीका
श्रीभा.[2-2-3]
मूलम्
स्वशासनोल्लङ्घनाभिसन्धिविच्छेदमात्रतः। अनादिकालोपचिन्तानन्तदुर्विषहागसाम्॥
मूलम्
अनभ्युपगमद्वारा सुखसंवृद्धये स्वयम्। यतते च तथाचोक्तं वसुदेवतनूभूवा॥
मूलम्
तेषां सततयुक्तानां भजतां प्रीतिर्पूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥
टीका
भ. गी.[9-10]
मूलम्
तेषामेवानुकम्पार्थमहज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥