343 पुरुषस्वातन्त्र्यम्

मूलम्

अथ प्राक्प्राक्कर्ममूलज्ञानेच्छादिनियन्त्रितः। कथं स्वन्त्रः पुरुषो नदीवेगहतो यथा॥

मूलम्

नहीच्छोत्पत्तिमात्रेण पुंसामर्थ्यं विनश्यति। प्रायेण विपरीतेच्छामसत्कुर्वन्ति सूरयः॥

मूलम्

सत्यामप्योदनेच्छायां विषसंपृक्तताधिया। तन्निवारणसामर्थ्यं चेतनस्येह दृश्यते॥

मूलम्

निधिलाभोपायदृष्ट्या नरः काष्ठनिचायकः। विनिवारयितुं शक्तः काष्ठसंपादनस्पृहाम्॥

मूलम्

एवंच प्रत्यवायस्य तथाऽधिकफलस्य वा। ज्ञाने सतीच्छान्तरस्य दृश्यते विनिवारणा॥

मूलम्

पुंसां स्वातन्त्र्योपपत्त्या कर्तृत्वं युज्यत् ततः। तत्कृत्याकरुणाकृत्यकरुणेच्छानिवारणे॥

मूलम्

क्षमोऽपि प्रत्यवायस्यानादरेण विमूढधीः। न निवारयतीत्ययेषोऽपराधो दण्डकारणम्॥