मूलम्
अत्रायामाशयो ज्ञेयः न्यायाचार्यैः प्रकाशितः। चित्राक्षेपपरीहार भाष्यवार्तिकयोरपि॥
मूलम्
अनुरुध्यैव तं न्यायं वेदान्ताचार्यसूरिभिः। गीतातृतीयतात्पर्यचन्द्रिकायां स्फुटीकृतः॥
टीका
तात्पर्य.[3-8]
मूलम्
नियतं चाप्यनियतं द्विधा कर्मफलं स्मृतम्। आद्यं प्रबलशापादिसंभवं नियतं तु तत्॥
मूलम्
इतरस्यादनियतं देशकालाद्यपेक्षया। ननु स्वरूपतो येन निष्फलत्वं प्रसज्यते॥
मूलम्
यच्चात्रानियतं तत्रावकाशः पुरुषस्य हि। यच्चापि दृष्टसामग्रीवैकल्याद्विकलं भवेत्॥
मूलम्
यच्चाधिकृत्य सुधियां लोकानुग्रहकारिणाम्। नीतिमन्त्रौषधप्रायश्चित्तशास्त्रादिदेशना॥
मूलम्
अन्यथा विजिगीषूणां समृद्धपरिपन्थिनाम्। चतुरङ्गादिकं नैव स्वीकार्यं स्यान्महीक्षिताम्॥
मूलम्
भेषजं नोपभुज्येत विभुधैरातुरारपि। स्वेच्छया करणाभावे शास्त्रदेरप्यनुत्थितिः॥
मूलम्
तत्सा स्वतन्त्रता पुंसां कर्मकर्तृत्वकारणम्। येच्छानुकूलानुष्ठानसामर्थ्येऽन्यानिवार्यता॥
टीका
श्रुत.[2-3-41]