मूलम्
अथात्रावरात्कर्मसामर्थ्ये किंचिदुच्यते। कर्मप्राधान्यवाङ्मात्रान्मूढाः पौरुषशालिनः॥
मूलम्
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति। कर्मी कर्मापि कृत्वाऽन्यो न प्राश्यमधिगच्छति॥
मूलम्
अज्ञो जन्तुरनीशोऽयमात्मात्मनस्सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेववा॥
टीका
भारत.[3-30-28]
मूलम्
कर्मादिनिरपेक्षं च कारणं परमेश्वरः। सर्वेषामिति सिद्धान्तमाहुः पाशुपताः परे॥
टीका
स. सं.[6 द.]
मूलम्
शरीरधारणं पुंसां सर्वेषामप्यपेक्षितम्। चिरकालं तन्न शक्यं कर्तुं यत्नशतैरपि॥
मूलम्
नचौदासीन्यमात्रेण तन्निवृत्तिश्च दृश्यते। नियतावधिको देहः स्यादारम्भककर्मणा॥
मूलम्
विवाहो जन्म मरणं जरा चेत्येवमादयः। नियता इति शास्त्रेषु स्मरन्त्यपिच कर्मिकाः॥