मूलम्
अत्र केचित्पुरा हिंसाबहुला जगति स्थिता। प्रवृत्तिरथ बुद्धादेरुपदेशादनन्तरम्॥
मूलम्
अहिंसा प्रथमो धर्मः इति सर्वत्र सुस्थितम्। स एव धर्मः प्रागासीदस्माकमिति वैदिकैः॥
मूलम्
पुराणपुरुषैर्व्यासपराशरमुखैर्बुधैः। परिष्कृतो वेदमार्ग इति युक्त्या प्रचक्षते॥
मूलम्
तदिष्टमपिचास्माकं अनादित्वेन जानताम्। व्यवहारं प्रपञ्चस्य चक्रवत्परिवर्तितम्॥
मूलम्
अनादितोऽप्यहिंसायाः धर्मत्वे परिनिष्ठिते। बुद्धेनापि हि तत्साक्षात्कर्तुं शक्येत नान्यथा॥
मूलम्
तस्मादहिंसाधर्मत्वं देशकालानुपस्कृतम्। आविर्भावतिरोभावौ देशे काले भविष्यतः॥
मूलम्
सनातनस्स एवासौ धर्म इत्याहुरादिमाः। मन्वाद्याः परमोदाराः तस्मात्सर्वं समञ्जसम्॥