339 विष्णुपुराणम्

मूलम्

पुरूरवस आख्याने पुराणे वैष्णवेऽपिच। एकोऽग्निरादावभवत् स च त्रेधा प्रवर्तितः॥

टीका

विष्णु.[4-6-94]

मूलम्

तेन मन्वन्तरे तत्र ततो यज्ञसमुद्भवः। इति श्रुतं ततः पूर्वं हिंसा नास्तीति गम्यते॥

मूलम्

एवंच देशकालोदेर्विपर्यासात्तदातदा। हिंसाऽहिंसाविभागः स्यात्पुंशक्त्यनुगुणस्त्वसौ॥