338 महाभारतम्

मूलम्

अतीते तु महाकल्पे जातो विद्वान् बृहस्पतिः। तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः॥

मूलम्

स राजा भावितः पूर्वं दैवेन विधिना वसुः। पालायामास पृथिवीं दिवमाखण्डलो यथा॥

मूलम्

तस्य यज्ञो महानासीत् अश्वमेधो महात्मनः। बृहस्पतिरुपाध्यायः तत्र होता बभूव ह॥

मूलम्

प्रजापतिसुताश्चात्र सदस्याश्चाभवन् त्रयः। एकतश्च द्वितश्चैव त्रिश्चैव महर्षयः॥

मूलम्

संभृतास्सर्वसंभाराः तस्मिन् राजन् महाक्रतौ। न तत्र पशुघातोऽभूत् राजैवावस्थितोऽभवत्॥

मूलम्

अहिंस्त्रश्शुचिरक्षुद्रः निराशीः सर्वसंस्तुतः। आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः॥

मूलम्

प्रीतस्ततोऽस्य भगवान् देवदेवः पुरातनः। साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित्॥

मूलम्

स्वयंभागमुपाघ्राय पुरोडाशं गृहीतवान्। अदृश्येन कृतो भागः देवेन हरिमेधसा॥

मूलम्

पशुयज्ञैः कथं हिंस्त्रैर्मादृशो यष्टुमर्हति। अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत्॥

मूलम्

शान्तियज्ञरतो दान्तः ब्रह्मयज्ञे स्थितो मुनिः। वाङ्मनःकर्मयज्ञश्च भविष्याभ्युपगायने॥

मूलम्

कुर्याद्धृतपशुंसङ्गे कुर्यात्पिष्टपशुं तथा। न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन॥