337 महाभारतम्

मूलम्

अथ कार्तयुगो धर्मः पुंविशेषव्यवस्थितः। नारायणीये विस्पष्टः भारते शान्तिपर्वणि॥

टीका

भारत. नारायणीयम्[ ]

मूलम्

अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ऋषीणां चैव संवादं त्रिदशानां च भारत॥

मूलम्

अजेन यष्टव्यमिति प्राहुर्देवाः द्विजोत्तमान्। स चाप्यजशछाग एव नान्यः पशुरिति स्थितिः॥

मूलम्

बीजैर्यज्ञेषु यष्टव्यमित्याहुर्मुनयः पुनः। अजसंज्ञानि बीजानि छागं नो हन्तुमर्हथ॥

मूलम्

व्रीह्यादिभिः पुनरजैः त्रिवर्षपरमोषितैः। बीजैरजं पिष्टमयं कृत्वा यष्टव्यमित्यपि॥

मूलम्

नैष धर्मः सतां देवाः यत्र वध्येत वै पशुः। अथ ते संविदं कृत्वा विबुधा ऋषयस्तथा॥

मूलम्

अपृच्छन् सहसाऽभ्येत्य वसुं राजानमन्तिकात्। भो राजन् केन यष्टव्यं अजेनाहोस्विदौषधैः॥

मूलम्

देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात्। छागेनानेन यष्टव्यमेवमुक्तं वचस्तदा॥

मूलम्

कुपितास्ते ततस्सर्वे मुनयस्सूर्यवर्चसः। सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत॥

मूलम्

तत एनं समुत्क्षिप्य सहसा विनतासुतः। उत्पपात नभस्तूर्णं ततश्चैनममुञ्चत॥

मूलम्

तस्मिन् मुहूर्ते संजज्ञे राजोपरिचरो वसुः। सशरीरो गतश्चैव ब्रह्मलोकान् नृपोत्तमः॥

मूलम्

इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः। अहिंस्या यज्ञपशवः युगेऽस्मुस्मिन्न तदन्यथा॥

मूलम्

चतुष्पात्सको धर्मः भविष्यत्यत्र वै सुराः। ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति॥

मूलम्

प्रोक्षिता यत्र पशवः वधं प्राप्स्यन्ति वै मुखे। यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति॥

मूलम्

यत्र देवाश्च यज्ञाश्च तपस्सत्यं दमस्तथा। अहिंसाधर्मसंयुक्ताः प्रचरेयुस्सुरोत्तमाः॥

मूलम्

स वो देशस्सेवितव्यः मा वो धर्मः पदा स्पृशेत्। इत्याह भगवान् साक्षाद्देवान्प्रति हरिः स्वयम्॥