मूलम्
अथ वेदान्तिनां तत्त्वविदां सिद्धान्तसंग्रहः॥
टीका
श्रीभा.[3-1-25]
मूलम्
अनर्थपर्यवस्थितः दुःखस्य जनकश्च यः। व्यापारस्य हि हिंसेति श्रीरामानुजनिर्णयः॥
मूलम्
सर्वापहारे नाव्याप्तिः नातिव्याप्तिश्चिकित्सने। यज्ञे वधोऽवधो यस्मात्पशुर्देवत्वमृच्छति॥
मूलम्
यत्किंचिदपि कार्यं तु नियोगादेव कुर्वताम्। न प्रत्यवायशङ्काऽस्ति शासनादिव भूभृताम्॥
मूलम्
श्येनादिवचनं शत्रुहिंसायत्नवतां स्वतः। उपायबोधनपरमिति वैषमियकल्पना॥
मूलम्
तत्र प्रायश्चित्तकाम्यपश्वालम्भनकर्मणाम्। प्रत्यवायापादकत्वप्रसङ्गः श्येनसाम्यतः॥
मूलम्
अकुर्वन् विहितं कर्म निन्दितं च समाचरन्। प्रसजंश्चेन्द्रियार्थेषु प्रायश्चित्ती भवेन्नरः॥
मूलम्
इत्यादिशास्त्राद्विहिताकरणादिनिमित्ततः। प्रत्यवायाद्धि भीतोऽसौ प्रायश्चित्तमिहेच्छति॥
मूलम्
कामी च पुत्रपश्वन्नस्वर्गभूत्यादिसाधने। प्रवर्ततेऽतः श्येनादिसाम्यं स्यान्निष्प्रतिक्रियम्॥
मूलम्
तत्त्वटीकाकृतामुक्तिरत्रैषाऽप्यवधार्यताम्। एषौपनिषदानां स्यात् गतिः प्रायेण सम्मता॥
टीका
त. टी.[145]
मूलम्
मुमुक्षुत्वामुमुक्षुत्वदशाभेदेन कर्मिणः। कर्मैकं पापपुण्यत्वे साध्यैक्येऽपि समश्नुते॥
मूलम्
श्येनादेश्चोदितस्यैव द्वैरूप्यं द्विविधश्रुतेः। एकस्यैवैकदैवास्ति कालभेदे तु किम्पुनः॥
मूलम्
श्येनेषुवज्रप्रभृतिष्वरि नानार्थचोदना। इष्टस्यारातिभङ्गदेरुपयांशोपदेशतः॥
मूलम्
घोरोपायान्तरेभ्यश्च लभ्येतात्र निवारणा। लघुनिष्कृतिनिस्तार्यं ह्यभिचारं प्रचक्षते॥
मूलम्
किंचानभिचरन् षट्सु पतेदित्यपि शिष्यते। तेन धर्मोपयुक्तत्वमाततायिवधे विदुः॥