मूलम्
मीमांसकास्तु श्येनस्य धर्मत्वमनुजानते। तत्र कौमारिलमते हिंसा श्येनफलं मतम्॥
मूलम्
अभिचारो हि मरणानुगुणव्यापृतिर्मता। श्येनो विधीयते तस्मान्न निषेधस्य गोचरः॥
मूलम्
तथाऽपि तामसत्वेन शिष्टास्तावन्न कुर्वते। प्रभाकरमते श्येनापूर्वं कर्तव्यमिष्यते॥
मूलम्
यागो निषेधविषयः विरोधविरहस्ततः। प्रायेणाधर्म इत्येव परेषामिव सम्मतः॥
मूलम्
कर्मस्वपि च काम्येषु विधिरेव प्रवर्तकः। फलरागात्प्रवृत्तिश्चेत् निषिध्येत क्रतौ वधः॥
मूलम्
साध्यसाधनविध्यन्तलक्षणांशत्रयस्तिता। हिंसा तत्र फलांशस्था निषेधविषयो मता॥
टीका
श्लोक.[117]
मूलम्
अंशद्धये तु या नाम तन्निषेधाभिधायिनाम्। अविशेषेण यच्छास्त्रं शिरोवदिति चोत्तरम्॥
मूलम्
निषेधनानवष्टब्धे विषये न ह्यनर्थता। प्रत्यक्षोदरशक्यत्वात् कल्प्यते निष्प्रमाणिका॥
मूलम्
ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः। ज्ञायन्ते शास्त्रतस्तास्तु क्रियाभेदव्यवस्थिताः॥
मूलम्
व्यवस्थाश्शक्तिभेदानां दृष्टार्थेष्वपि कर्मसु। अभिन्नत्वेऽपि दृष्यन्ते भुजेः स्वस्थातुरेष्वपि॥
मूलम्
इति वार्तिकारीययुक्तिसिद्धान्तसंग्रहः।