मूलम्
साक्षान्मरणहेतुर्यः स हिंसाशब्दशब्दितः। श्येनस्यातादृशत्वेन न हिंसेत्यपरे विदुः॥
मूलम्
अदृष्टाद्वारकत्वेन मृतिः कैश्चिद्विवक्ष्यते । मरणानुगुणस्साक्षाद्व्यापारो वधलक्षणः ॥
टीका
व्युत्पत्तिवादे लिङर्थः[ ]
मूलम्
अभिचारे कृते प्रायश्चित्तस्यापि विधानतः। अधर्म एव श्येनादिरिति तार्किकपद्धतिः॥
मूलम्
धर्मस्विष्टस्य बलवदनिष्टाननुबन्धिनः। साधनं स्यात्तता हिंसानिषेधश्श्येनगोचरः॥