मूलम्
नित्यकाम्यविभेदेन विहितं द्विविधं पुनः। काम्यमेव हि कर्मेति यदि मीमांसका विदुः॥
मूलम्
सर्वस्यैव च काम्यत्वे कामना न भवेद्यदि। सर्वोऽपि वैदिकः पन्थाः भवेद्दत्तजलाञ्जलिः॥
मूलम्
कैश्चित्तु सकलं कर्म नित्यमेवेति भण्यते। तथात्वे पुरुषाशक्त्या शास्त्रं हि स्यादवत्सलम्॥
मूलम्
तन्नित्यकाम्यभेदेन विभागो न्यायविन्मतः। तत्र नित्यं तु शक्याङ्गं काम्यमुक्ताङ्गकं मतम्॥
टीका
न्या. मा.[103]
मूलम्
नित्यकाम्यस्वरूपैक्ये विनियोगपृथक्त्वतः। फलार्थं क्रियमाणेऽपि नित्यं भवति तन्त्रतः॥
मूलम्
नित्येन काम्यसिद्धिं तु कल्पकाराः प्रचक्षते। प्रत्यवायपरीहारफलं नित्यं प्रचक्षते॥
टीका
आप. ध.[1-20.3]
मूलम्
पापक्षयफलं केचित् काम्यं चापि क्वचित् यदा। आरब्धे कामनाहानावुक्ताङ्गाशक्तिसंभवे॥
मूलम्
नित्यं सामान्यफलतः काम्यं फलविशेषतः। पापक्षयादिस्सामान्यं पश्वादिस्तु विशेषतः॥
मूलम्
प्रयोजनमुद्दिश्य न मन्दोऽपि प्रवर्तते। एवमेव प्रवृत्तिश्चेच्चैतन्येनास्य किं फलम्॥
टीका
श्लोक.[653]