मूलम्
वेदेन सकलं कर्म काम्यमेवोपदिश्यते। इत्येतत् भर्तृनित्रादेः मतमित्यूहितुं क्षमम्॥
मूलम्
यतस्ते नोपगच्छन्ति फलं नित्यनिषिद्धयोः। इति कौमारिलाः प्राहुरित्यूचे पार्थसारथिः॥
टीका
न्या. र.[4]
मूलम्
निषिद्धस्य फलाभावे न त्याज्यमितिचेन्न तत्। द्विजातिकर्मणो हानिः परत्रासिद्धिरित्यपि॥
टीका
गौ. ध.[21-4]
मूलम्
तमेते नरकं प्राहुरिति गौतमसूत्रणम्। नरकं स्यान्यक्करणं नीचैर्गमनमेव वा॥
मूलम्
नास्यास्मिन् रमणं वेति निरुक्तं यास्कसूरिणा। इति गौतमशास्त्रस्य भाष्ये मस्करिणोदितम्॥
मूलम्
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्। अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति॥
टीका
याज्ञ.[3-219]
मूलम्
हिंसास्तेयानृताब्रह्मचर्यग्रहणभेदतः। निषिद्धं कर्म सकलं संजग्राह पतञ्जलिः॥
मूलम्
यत् शौचसंतोषतपस्स्वाध्यायेश्वरसेवनम्। विहितस्य च सर्वस्य पञ्चधा संग्रहो ह्ययम्॥