327 सेश्वरसिद्धान्तः

मूलम्

कर्मानुष्ठानजनितदेवताबुद्धिरेव हि। अदृष्टमिति सिद्धान्तः बादरायणसम्मतः॥

मूलम्

यागो हि देवतापूजा पूजनं प्रीणनं मतम्। अतो यज्ञाराधितस्सन् फलं देवः प्रयच्छति॥

मूलम्

नच प्रीतेरपूर्णत्वं नच कोपात्सदुःखता। फलप्रदित्सारूपत्वादुभयोरपि कर्मणोः॥

मूलम्

विग्रहो हविरादानं युगपत्कर्मसन्निधिः। प्रीतिः फलप्रदानं च देवतानां न विद्यते॥

मूलम्

इति लाघवयुक्तिस्तु शास्त्रेणैव व्यपोद्यते।प्रजया पशुभिश्चैव तृप्त एनं समर्धयेत्॥

मूलम्

अन्नादो वसुदानश्चेत्याद्याः बह्वीरधीयते। यथा स्वर्गपरो वेदः तथा वै देवतापरः॥

मूलम्

प्रत्यक्षमुभयं कस्माद्देवताद्वेषसंभवः। कृष्यादौ मर्दनादौ च फलं स्यात्स्वस्वशक्तितः॥

मूलम्

न तद्वदेव शास्त्रीये कर्मण्यपि कुतो भवेत्। नहि दृष्टान्तमात्रेण श्रतसाय त्यागा इष्यते॥

मूलम्

राज्ञामाज्ञानुवृत्त्यादेः प्रीतिकोपौ हि सिध्यतः। प्रधानकर्मवत्प्रीतिः गुणकर्मस्वपीष्यते॥

मूलम्

केचित्सत्त्वसमुद्रेकं द्रव्यादिष्वनुजानते। सोऽपीशसंकल्पनिघ्नः तं विना न तृणं चलेत्॥

मूलम्

अहं हि सर्वज्ञानां भोक्ता च प्रभुरेव च। इत्याह भगवान् देवः सर्वदेवमयोऽच्युतः॥

मूलम्

आत्मानां विभुतासिद्ध्यै गीताऽधीता कुमारिलैः। अन्यत्र विस्मृता कस्मात् प्रमादो धीमतामपि॥

मूलम्

तस्मादिन्द्राद्यपायेऽपि न फलस्य च्युतिः क्वचित्। सुप्तिर्मृतिः यस्य न स्तः तस्य चाज्ञा श्रुतिः स्मृतिः॥

टीका

तन्त्र.[380]

मूलम्

पितृत्वं देवतात्वं च केषां चित्कर्मणां फलम्। तेषां समाराध्यताऽतः द्वारं तत्सर्वशासितुः॥

मूलम्

बहुधा दृश्यते धर्मः दुर्ज्ञानः सूक्ष्म इत्यपि। महर्षयोऽपि धर्मज्ञाः प्राहुरन्यत्र विस्तरः॥