मूलम्
इत्याहुर्धर्ममीमांसाविदो यद्यपि युक्तितः। तथापीदं बुधास्तत्र विमृशन्ति धिया यथा॥
मूलम्
अनुग्रहो निग्रहो वा नैकस्यात्र विवक्षितः। अन्यथा दण्ड्यदण्डादावपि पापादि संभवेत्॥
मूलम्
निग्राहकं भूयसां यत् यच्चानुग्राहकं तथा। विवक्षितं तदेवात्र जपादिष्वपि चास्ति तत्॥
मूलम्
यत्परंपरया साक्षाद्वा स्याच्चेदुपकारकम्। भूयसां धर्म एवासौ विपरीतं विपर्ययः॥
मूलम्
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥
मूलम्
आर्याः प्रशंसन्ति यत्तु क्रियमाणमितीरितम्। आपस्तम्बादिभिः व्यासमहर्षिप्रमुखैः पुनः॥
टीका
आप. ध.[1-20-7]
मूलम्
श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः। परोपकारः पुण्याय पापाय परपीडनम्॥
मूलम्
इत्युदीरितमेतेन निष्कृष्टार्थोऽयमुच्यते। एतावज्जन्मसाफल्यं प्राणिनामिह देहिषु॥
मूलम्
प्राणैरर्थैर्धिया वाचा श्रेयआचरणं सदा। निष्कर्षोऽयं सर्वनरदेशकालानुपप्लुतः॥