मूलम्
इति यौक्तिकसिद्धान्ते धर्मादिरनुमीयते। चोदनैकाधिगम्यत्वसिद्धान्ते किंचिदुच्यते॥
मूलम्
विहितप्रतिषिद्धत्वे मुक्त्वाऽन्यत् नच कारणम्। धर्माधर्मावबोधस्य तेनायुक्ताऽनुमानगीः॥
टीका
श्लोक.[120]
मूलम्
अनुग्रहाच्च धर्मत्वं पीडातश्चाप्यधर्मताम्। वदतो जपसीध्वादिपानादौ नोभयं भवेत्॥
मूलम्
क्रोशता हृदयेनापि गुरुतल्पादिगामिनाम्। भूयान् धर्मः प्रसज्येत भूयसी ह्यपकारिता॥
मूलम्
अनुमानप्रधानस्य प्रतिषेधानपेक्षिणः। हृदयक्रोशनं कस्मात् दृष्टां पीडामपश्यतः॥
मूलम्
पीडातश्चाप्यधर्मत्वं तथा पीडामधर्मतः। अन्योन्याश्रयमाप्नोति विना शास्त्रेण साधयन्॥
मूलम्
तस्मादनुग्रहं पीडां तदभावमपास्य च। धर्माधर्मार्थिभिर्नित्यं मृग्यौ विधिनिषेधकौ॥
मूलम्
हिंसायाः विषयो यादृक् प्रेत्य कर्तुस्तथाविधम्। फलं प्रजायते यद्वच्छास्त्रोक्ते दानकर्मणि॥
टीका
श्लोक.[118]
मूलम्
मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥
टीका
मनु.[5-55]
मूलम्
य एवमाह तस्यापि गुरुस्त्रीगमनादिभिः। सुरापानादिभिश्चापि विपक्षैः व्यभिचारिता॥
मूलम्
क्षत्रं क्षत्रस्य यद्धर्मः नास्ति तस्मात्परं भुवि। इति सृष्टिप्रकरणे श्रुता शातपथी श्रुतिः॥
टीका
बृ. उ.[3-4-14]