मूलम्
जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः। कृषिसेवादिसाम्येऽपि विलक्षणफलोदयः॥
टीका
न्या. म.[471]
मूलम्
अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्यचित्। क्वचित्फलमयत्नेऽपि यत्नेऽप्यफलता क्वचित्॥
मूलम्
तदेतद्दुर्घटं दृष्ट्वा कारणाद्व्यभिचारिणः । तेनादृष्टमुपेतव्यमस्य किंचन कारणम्॥
मूलम्
अदृष्टो भूतधर्मस्तु जगद्वैचित्र्यकारणम्। यदि कश्चिदुपेयेत को दोषः कर्मकल्पने॥
मूलम्
संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत्। भूतवद्भूतधर्मस्य नच दृश्यत्वसंभवः॥
मूलम्
दृष्टश्च साध्वीसुतयोर्यमयोः तुल्यजन्मनोः। विशेषो वीर्यवित्ज्ञानसौभाग्यारोग्यसम्पदाम्॥
मूलम्
स्वाभाविकत्वं कार्याणां बहुधा सुनिराकृतम्। तस्मात्कर्मम्य एवैष विचित्रजगदुद्भवः॥
मूलम्
सापेक्षत्वादनादित्वात् वैचित्र्याद्विश्ववृत्तितः। प्रत्यात्मनियामाद्भुक्तेरस्ति देतुरलौकिकः॥
टीका
न्या. कु.[1 स्त]
मूलम्
चिरध्वस्तं फलायालं न कर्मातिशयं विना। संभागो निर्विशेषाणां न भूतैस्संस्कृतैरपि॥
मूलम्
अथ स्यात्कर्मवैचित्र्यं कर्मान्तरकृतं यदि। अनवस्था स्वतः तस्माज्जागत्स्यादिति चेन्न तत्॥
मूलम्
कर्मणां शास्त्रतो ज्ञाता विचित्रफलशक्तता। दृष्टार्थेषु च वाक्येषु दृष्टा प्रत्यक्षतश्च सा॥
मूलम्
तस्माद्दृष्टस्य कार्यस्य युक्ता कारणकल्पना। कारणस्य त्वदृष्टत्वे किं हेत्वन्तरचिन्तया॥
मूलम्
हेत्वन्तरनिमित्तेऽपि कर्मवैचित्र्यकल्पने। संसारस्य ह्यनादित्वान्नानवस्था भयावहा॥
मूलम्
शपता यत्कृतं पुण्यं शप्यमानमुपैति तत्। शप्यमानस्य यत्पापं शपन्तमुपगच्छति॥
टीका
स. सि.[2-48]
मूलम्
तथाच पुण्यः पुण्येन पापः पापेन कर्मणा। जायते जन्तुरित्येवं धर्मशास्त्रेषु पठ्यते॥