मूलम्
विस्तरस्तस्य च पुनर्विवेकाय विलिख्यते। शास्त्रैकसमधीगम्यं श्रेयसस्साधनं तु यत्॥
मूलम्
स धर्म इति जैमिन्याचार्यैलक्षणमुच्यते। तस्यैव शाबरो भाट्टो गौरवो निर्णयः कृतः॥
मूलम्
द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते। तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता॥
टीका
श्लोक.[49]
मूलम्
श्रेयस्साधनता ह्येषां नित्यं वेदात्प्रतीयते। ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः॥
मूलम्
कार्यमात्रे कारणं तत् अदृष्टमिति वैदिकाः। तत्र लोकायताः प्राहुः कुतोऽदृष्टं प्रकल्प्यते॥
मूलम्
नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन। विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः॥
मूलम्
वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः। केनेदं चित्रितं तस्मात् स्वभावात्तद्व्यवस्थितिः॥
मूलम्
दृष्टेषु कारणेष्वेव सूक्ष्मो भेदः प्रकल्प्यताम्। किं धर्म्यन्तरक्लृप्त्येति तत्रेत्थं यौक्तिका विदुः॥