मूलम्
धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् । गङ्गास्नानादियागादेः व्यापारस्स तु कीर्तितः ॥
टीका
सि. मु.[161 का.]
मूलम्
नाश्यस्त्वसौ कर्मनाशास्पर्शसंकीर्तनादिना । अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः ॥
मूलम्
प्रायश्चित्तादिना नाश्यः जीववृत्ती त्विमौ गुणौ । संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥
टीका
न्या. कु.[1 स्त]
मूलम्
स्वगुणाः परमाणूनां विशेषाः पाकजा मताः। इमौ तु तत्त्वविज्ञानादपि क्वापि विनश्यतः॥
मूलम्
अपूर्वं कर्मनिर्वर्त्यं वृद्धमीमांसका विदुः।