मूलम्
एवं वर्णविकल्पोऽत्र संगृहीतः प्रमाणतः। अथ ध्वनिविकल्पोऽपि विद्वद्भिः श्रूयतां मुदे॥
मूलम्
शब्दत्वं नाम सामान्यं ध्वमिमाहुः परे बुधाः। ध्वनिनादश्च घोषश्चेत्यनर्थान्तरवादिनः॥
मूलम्
अतएव हि संस्थासु दूरस्थैः श्रूयते ध्वनिः। न व्यञ्जनं न स्वरो वा न पदं वाक्यमेववा॥
मूलम्
शब्दाः स्युस्तन्मते नूनं स्वरव्यञ्जनलक्षणाः। ततो विशेषसामान्यभा स्स्यात् ध्वनिशब्दयोः॥