मूलम्
वेदानित्यत्वमीत्यैव स्थाप्यते वर्णनित्यता। शब्दनित्यत्ववादस्थं वार्तिकं त्ववधार्यताम्॥
मूलम्
स्थिते कूटस्थनित्यत्वे व्यवहारस्य नित्यता। कूटस्थेन विनैतेन न तस्यालम्बनं भवेत्॥
मूलम्
प्रसिद्धत्वादृते सर्वो व्यवहारो हि नेष्यते। तस्माद्वेदप्रमाणार्थं नित्यत्वमिह साध्यते॥
मूलम्
नित्येषु सत्सु वर्णेषु व्यवहारात्क्रमोदयः। घटादिरचना यद्वत् नित्येषु परमाणुषु॥
मूलम्
अणुकल्पाश्च वर्णांशाः न सन्त्यनुपलम्भनात्। द्रष्टव्यो विस्तरस्तत्र,चेत्कुतूहलशीलता॥
मूलम्
तस्माच्छ्रोत्रग्राह्यतैव शब्दलक्षणमिष्यते। अर्थप्रत्यायकत्वं तु स्फोटवादिभिरुच्यते॥
टीका
श्लोक.[511]
मूलम्
तत्रेतरेषां सिद्धान्तस्वान्तमित्थं विचिन्त्यते। वर्णानामेव वेदत्वे वाङ्मात्रं नित्यमापेतत्॥
मूलम्
नहि वर्णाः स्वयं वेदाः वाक्यं तद्व्यपदेशभाक्। अस्वातन्त्र्यं तु संदर्भे स्यात्प्रवाहनिबन्धनम्॥
मूलम्
तत्र प्रवाहनित्यत्वं संदर्भेऽपि समत्यजन्। तार्किका हीश्वरत्वं स्यात्तदानीं पुष्कलं त्विति॥