मूलम्
श्रोत्रमप्राप्यकारीति प्राहुस्ताथागताः पुनः । श्रोत्रवृत्तिश्शब्ददेशं गच्छतीति हि कापिलाः ॥
मूलम्
शब्दस्स्वभूमेर्निष्क्रम्य सर्पतीत्यार्हतं मतम् । स्वस्मिन् गृह्णाति संभूतमिति तार्किकपद्धतिः ॥
मूलम्
ध्वनयश्श्रवणग्राह्याः वर्णाः व्यज्यन्त इत्यपि । वर्णानित्यत्वसिद्धान्ते प्राहुर्मीमांसका बुधाः ॥