मूलम्
एवं सिग्घान्तयन्त्यत्र कुमारिलविपश्चितः । अपि चैते स्फोटवादे नैयायिकमतेऽपि नः ॥
टीका
श्लोक.[526]
मूलम्
व्यक्त्याकृतिकृतो भेदो यद्यप्येकान्ततो भवेत् । वर्णेषु, जैमिनेः पक्षः तथाऽपि न विरोत्स्यते ॥
मूलम्
नित्यत्वयत्नसर्वोऽपि गत्वादिषु भविष्यति । गकारादिवचस्त्वेतत्तेष्वेव न विरोत्स्यते ॥
मूलम्
इति स्पष्टं यतः प्राहुः युक्तिज्ञास्सरलाशयाः । अतस्तार्किकसिद्धान्तो नानिष्ट इति गम्यते ॥
मूलम्
कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः । वर्णोऽप्येको गकारादिरिति युक्तिर्गरीयसी ॥
टीका
न्या. म.[220]
मूलम्
शब्दनित्यत्ववादे हि विस्तरेण विरूपिता । तस्मात्सर्वेऽपि सिद्धान्ताः विश्रान्ताः किल युक्तिषु ॥