300 अनादिता

मूलम्

व्यवहारानादितायै सैषा कूटस्थनित्यता । प्रवाहतस्तु नित्यत्वं क्रमस्याभ्युपगम्यते ॥

टीका

श्लोक.[802]

मूलम्

क्रमस्य कालरूपत्वात् कालो नित्यो विभुस्ततः । क्रमोऽपि कूटस्थनित्य इति केचिद्विदुर्बुधाः ॥

टीका

श्लोक.[806]

मूलम्

शब्दत्वं परसामान्यमपरं स्वरतादिकम् । गत्वादिकं न सामान्यं एकव्यक्त्याख्यदोषतः ॥

मूलम्

वर्णा एवावगम्यन्ते न पूर्वापरवस्तुनी । वर्णकारणभूता येऽवयवाः पूर्वशब्दिताः ॥

मूलम्

गत्वमत्वं चावयवी गोशब्दत्वं गणोऽपि वा । स्फोटश्चेति विकल्पाश्चापरशब्दविवक्षिताः ॥

मूलम्

प्रयोजनं तु यज्जात्या तद्वर्णादेव जायते । व्यक्तिलभ्यं तु नादेभ्यः इति गत्वादिधीः वृथा ॥

मूलम्

त्रिगुणः पौद्गलो वाऽयं आकाशस्याथवा गुणः । वर्णादन्योऽथ नादात्मा वायुरूपोऽर्थवाचकः ॥

टीका

श्लोक.[811]

मूलम्

पदवाक्यात्मकः स्फोटः सारूप्यान्यनिवर्तने । एतेषामस्त्वनित्यत्वं नास्माकं तेषु नित्यता ॥

मूलम्

प्रत्यभिज्ञा यदा शब्दे जागर्ति निरवग्रहा । अनित्यत्वानुमानानि सैव सर्वाणि बाधते ॥

मूलम्

नादेन संस्कृताच्छ्रोत्राद्यदा शब्दः प्रतीयते । तदुपश्लेषतस्तस्य बोधं केचित्प्रचक्षते ॥

मूलम्

नैव वा ग्रहणं तेषां शब्दे बुद्धिस्तु तद्वशात् । संस्कारानुकृतेः, यद्वत् महत्त्वाद्यवगम्यते ॥