मूलम्
भगवानुपवर्षोऽपि मतान्येतान्यधिक्षिपन् । गौरित्यत्राथ कश्शब्दः इत्याद्याहेति शाबरम् ॥
टीका
शा. भा.[1-1-5]
मूलम्
वर्णात्मकास्तु ये शब्दा नित्यास्सर्वगतास्तथा । पृथग्द्रव्यतया ते तु न गुणाः कस्यचिन्मताः ॥
मूलम्
वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते । पदे न वर्णा भिद्यन्ते वर्णेष्ववयवा न च ॥
मूलम्
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन । ह्रस्वोदात्तद्रुतत्वादिधर्माः व्यञ्जकसंस्थिताः ॥
मूलम्
अध्यस्ता अपि वर्णेषु प्रतीत्यौपयिका मताः । व्यञ्जकस्तु ध्वनिस्सोऽयं वायुर्वा तद्गुणोऽस्तु वा ॥
मूलम्
अभिव्यञ्जकनानात्वात् वर्णो नानेव लक्ष्यते । नेत्रवृत्तिविभेदेन वर्णस्तैमिरिकैरिव ॥
मूलम्
यथा तुरगदेहस्थो वेगः पुंसोऽर्थसिद्धये । ध्वनिधर्मोऽपि दीर्घादिः वर्णानुमुपकारकः ॥
मूलम्
यथा सर्वगता जातिः पिण्डदेशैव गृह्यते । नच कार्त्स्न्यगृहीताऽपि पिण्डेऽन्यत्र न दृश्यते ॥
मूलम्
तथा सर्वगतश्शब्दः नाददेशेषु गृह्यते । कार्त्स्न्येन च गृहीतोऽपि पुनरन्यत्र गृह्यते ॥
मूलम्
पिण्डोऽभिव्यञ्जको जातेः वर्णस्य व्यञ्जको ध्वनिः । आश्रितानाश्रितत्वादिविशेषः क्वोपयुज्यते ॥
मूलम्
प्रतिभावाक्यवाक्यार्थवादाद्यनवकाशिनी । शब्दस्य नित्यता वर्णलक्षणस्यैव साध्यते ॥