मूलम्
आकाशस्य गुणश्शब्दो यस्संयोगविभागजः । वर्णध्वन्यात्मकः गत्वगन्धारत्वादिजातिमान् ॥
मूलम्
उत्पन्नः को विनष्टः कः इति बुद्धेरनित्यता । तदेवौषधमित्यादितुल्यस्सोऽयमिति भ्रमः ॥
मूलम्
क्षणिकस्स्वसजातीयशब्दमारभते पुनः । तारङ्गान्मौकुलाद्वाऽपि न्यायादिति हि तार्किकाः ॥