296 वायुपक्षः

मूलम्

कौष्ठ्यो बहिर्निस्सरति समीरण इति स्फुटम् । स गच्छन् सर्वतोदिक्कः स्तिमितामिलनोदनम् ॥

टीका

न्या. म.[216]

मूलम्

करोति कर्णाकाशे च प्रयाति श्रुतियोग्यताम् । स मूर्तः प्रसरन् मूर्तैः अपरैः प्रतिहन्यते ॥

मूलम्

कुड्यादिभिरतो नास्य श्रुतिर्व्यवहितात्मनः । इति वायुं तत्क्रियां वा शब्दं शिक्षाविदो विदुः ॥

मूलम्

वायो त्वमेव प्रत्यक्षं ब्रह्मासीति नमोऽस्तु ते । इति शान्तिं तैत्तिरीयाः पठन्त्युपनिषन्मुखे ॥