मूलम्
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्। विवर्ततेऽर्थभावेन स्फोटं तं मनुते हरिः॥
टीका
वा. प.[1-1]
मूलम्
शब्दब्रह्म यदेकं यच्चैतन्यं प्राणिनां तथा। इदं त्रिभुवनं सर्वं यत्परीणाम इत्यपि॥
टीका
प. म.[14 भ]
मूलम्
हलायुधोऽब्रवीदेवं तथाऽऽलंकारिका विदुः। देवतां कांचिदुद्दिश्य भक्त्या यो वक्ति किंचन॥
टीका
प. म.[14 भ]
मूलम्
तस्य दोषं न यत्किंचिन्मनसाऽपि विचिन्तयेत्। इति चोक्तं परमतभङ्गे भागे चतुर्दशे॥
मूलम्
नादैराहितबीजायां अन्त्येन ध्वनिना सह। आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते॥
मूलम्
अप्रच्युतस्वभावस्य तत्त्वादेकस्य वस्तुनः । स विवर्तौ विभक्तान्यरूपोपग्राहिता तु या ॥
मूलम्
भेदानुकारेणासत्या स्वाप्नार्थप्रतिभासवत् । तद्वाक्यपदवर्णादिभेदस्सर्वो विकल्पना ॥