मूलम्
शब्दस्यावयवास्सूक्ष्माः सन्ति केचन पुद्गलाः। तैर्वर्णो जायते तैश्च शब्दोऽन्योऽवयी भवेत्॥
मूलम्
स च क्रियाश्रयः स्पर्शगुणवान् त्वगगोचरः। महत्त्वाणुत्वगुणवानुद्भवाभिभवाश्रयः॥
मूलम्
स्वभूमेस्सोऽभिनिष्क्रम्य तिर्यगूर्ध्वमधोऽपि च। पुंसां श्रुत्यन्तरं चोपसर्पतीत्यार्हतं मतम्॥