मूलम्
वैभाषिकास्तु शब्दादीन् पञ्चधाऽणून् प्रचक्षते। शब्दात्मानश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन्॥
टीका
वा. प.[1-112]
मूलम्
अणवस्सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः। छायातपतमश्शब्दभावेन परिणामिनः॥
मूलम्
स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः। अब्भ्राणीव प्रचीयन्ते शब्दाद्या इति तन्मतम्॥