मूलम्
प्राकट्यं स्यात् ज्ञानधर्मः इत्याहुः किल सौगताः। आत्मधर्म इति प्राहुः प्राभाकरमतानुगाः॥
टीका
प्र. त.[35]
मूलम्
प्राकट्यं नाम सर्वेषु विषयेषु स्थितो गुणः। इति कौमारिलाः प्राहुः हेतुः प्रागेव विस्तृतः॥
मूलम्
ज्ञानार्तयोश्च संबन्धः यस्स्याद्विषयताऽऽत्मकः। स ज्ञानरूप एवेति नैयायिकमुखा विदुः॥
मूलम्
अतिरिक्तं पदार्थं तं नव्यनैयायिका विदुः। विषयत्वविकल्पस्तु संबन्धेऽत्र प्रपञ्चते॥
मूलम्
सर्वासां च प्रतीतीनां बुद्धिसंबन्धमात्रतः। उपपत्तेः प्रकाशोऽन्यैः तदन्यो नाभ्युपेयते॥
टीका
श्रीभा. महासिद्धान्तः[ ]
मूलम्
यदि कल्प्येत विषये प्राकट्यं व्यवहारतः। तद्धेतुत्वेन कल्प्या धीः तत्फलार्थं प्रकल्प्यताम्॥
मूलम्
यदि तत्रैव तस्यैव प्राकट्यं ते धिया भवेत्। तथा ज्ञानादयोऽपि स्युः किमन्तर्गडुनाऽमुना॥
मूलम्
प्राकट्यं प्रकटं वा स्यादन्यतः स्वत एव वा। आद्येऽनवस्थितिश्शेषे बुद्धिरेव तथा न किम्॥
मूलम्
स्वदते मोदत इति यथा भाति घटस्तथा। शब्दानां नियतिस्सेयं नार्थधर्मप्रसाधकम्॥
मूलम्
इष्टता द्विष्टता चैव कृतता च प्रणष्टता। तथा संस्कृतता च स्यात् अधिका ज्ञातता यथा॥
मूलम्
प्राकट्यं हि गुणः प्रोक्तस्स रूपादौ कथं भवेत्। गतिक्रियायाः कर्मत्वं प्राप्त्या चेत्फलरूपया॥
मूलम्
प्राप्तिक्रियायाः कर्मत्वं किमन्यदिह कथ्यते। तस्मात्प्राक़ट्यसिद्धान्तः मतिजाड्यनिबन्धनः॥
मूलम्
ज्ञानस्य द्रव्यरूपत्वे स स्यात्संयोगलक्षणः। दृग्दृश्यसंगतिं चान्ये दुर्निरूपां विदुर्बुधाः॥
मूलम्
स योगाचारमार्गः स्यात्तादात्म्ये पर्यवस्यति। तद्वादधूननायैव प्राकट्यपरिरक्षणम्॥