मूलम्
संविदं स्वप्रकाशां तु मन्यन्ते ये च तन्मते। स्वोत्पत्तिसमये संवित् वेत्तारं वेद्यमेव च॥
मूलम्
स्वस्वरूपं भासयति न त्वेषां तु परस्परम्। संबन्धं स्वस्वरूपस्यानिष्पन्नत्वादसत्त्वतः॥
मूलम्
संविदन्तरनिष्पत्तिसमये पूर्वसंविदः। नष्टत्वादुक्तसंबन्धो न तद्गोचरतामियात्॥
मूलम्
किंतु संवेत्तृधर्मोऽसौ प्राप्ताख्यः स्वात्मसाक्षिकः। निष्पन्नायां तु संवित्तौ स संबन्धोऽवभासते॥
मूलम्
ततएवच संवित्तिवस्तुकल्पनसंभवात्। संवित्तैः स्वप्रकाशत्वकल्पना गुरुताऽऽदृता॥