मूलम्
अथ बुद्धिप्रसङ्गेन प्राक्ट्यमिह कथ्यते। भाट्टदृष्टः प्रकटता गुणः न तु परैः बुधैः॥
टीका
न्या. र.[319]
मूलम्
घटो हि विद्यमानोऽपि कस्यचिद्व्यवहार्यताम्। प्रपद्यते न सर्वेषामथवा नापि सर्वदा॥
मूलम्
तस्माद्यदा व्यवहरेत् चेतनोऽसौ घटादिना। तदा तद्व्यवहारस्यानुगुणोऽतिशयोऽस्ति यः॥
मूलम्
स ज्ञानमिति सर्वेऽपि कल्पयन्ति परीक्षकाः। उत्पन्नमेव तत् ज्ञानं प्रत्यक्षमिति केचन॥
मूलम्
ज्ञानजन्यादतिशयादनुमेयमितीतरे। कीर्त्यतेऽसौ प्रकटता दृष्टता ज्ञाततेति च॥
मूलम्
सामान्यतस्तु प्राकट्यमिति तैः परिभाष्यते। दृष्टता जायतेऽध्यक्षात्परोक्षात् ज्ञाततेत्यपि॥
मूलम्
तत्रापरोक्षं दृष्टत्वं घटो मयेति हि। दृष्टत्वमनुसंधत्ते सर्वोऽप्यर्थस्य चात्मना॥
मूलम्
नान्यथा ह्यर्थसद्भावो दृष्टस्सन्नोपपद्यते। ज्ञानं चेन्नेत्यतः पश्चात्प्रमाणमुपजायते॥
टीका
श्लोक.[318]
मूलम्
तथैवानुमिते ह्यर्थे मया ज्ञातोऽग्निरित्यप्। ज्ञातत्वमनुसंधत्ते ज्ञातता नाक्षगोचरा॥
मूलम्
अथाप्यत्रोपपत्तिं ते सूक्ष्मदृष्ट्या प्रचक्षते। ज्ञातता ह्यात्मनोऽर्थेन संबन्धः प्राप्तिलक्षणः॥
मूलम्
कर्तृकर्मात्मनोर्मातृमेययोराप्तिरेव सा। सैव पाक्ट्यदृष्टत्वज्ञातत्वादिपदोदिता॥
मूलम्
व्यापारोऽवश्यवक्तव्यः पुमान् येन प्रवर्तितः। अर्थोऽपि प्रापितश्च स्यात्प्रमेयाधिगातिर्हि सा॥
मूलम्
मानसाध्यक्षवेद्या सा परोक्षो विषयो यदि। कल्प्येदेव विज्ञानमन्यथाऽनुपपत्तितः॥
मूलम्
तं पदार्थान्तरं प्राहुः प्राक्ट्यमिति पण्डिताः। एवं प्राकट्यतत्त्वार्थो न्यायरत्नाकरे स्फुटः॥