मूलम्
आनूकूल्यप्रातिकूल्यवेद्यतां सुखदुःखयोः। लक्षणं तत्रानुकूलं सुखं दुःखं विपर्ययः॥
टीका
श्रीभा. श्रुतिघट्टः[ ]
मूलम्
प्रायो विदितमेवैतत् कैश्चिद्वेदान्तिभिः पुनः। अनुकूलतया वेद्यं सर्वं सुखमितीष्यते॥
मूलम्
प्रतिकूलतया वेद्यं सर्वं दुःखमिति स्मृतम्। अतः सर्वे पदार्थास्स्युः सुखदुःखपदाभिधाः॥
मूलम्
सैषाऽऽनन्दस्य मीमांसा युवा स्यादित्युपक्रमात् । अनुकूलतया वेद्यं सर्वमानन्दमब्रवीत् ॥
मूलम्
आनुकूल्यं विषयताविशेषः सर्वगामि तत् । तस्मात्सर्वं सुखं यद्वा तज्ज्ञानं सुखमिष्यते ॥
टीका
वे. सं.[248]
मूलम्
तद्धेतोरेव तत्त्वे तु किं वस्त्वन्तरचिन्तया । तस्मादविदितावस्थायोगित्वं तस्य नेष्यते ॥
मूलम्
साक्षिवेद्यत्वसिद्धान्तः पर्यायादयमेव हि । स्वप्रकाशात्मवादो वा सर्वमेकफलोन्मुखम् ॥
मूलम्
अत्रैव शाक्यभिक्षूक्तं वचनं त्ववधार्यताम् । तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ॥
टीका
न्या. म.[74]
मूलम्
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् । विकल्पो यदि बाह्येऽपि किं वक्तव्यमिहान्तरे ॥