285 प्रयत्नः

मूलम्

प्रयत्नोऽपि धियो भेदः पौरुषेयी कृतिर्हि सा । सर्वत्राख्यातवाच्यैषा या त्वार्थी भावनोच्यते ॥

मूलम्

वाक्यार्थवादे तत्त्वं स्पुटमग्रे भविष्यति। प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम्॥

टीका

मानमेय.[495]

मूलम्

एवं प्रयत्नत्रैविध्यं तार्किकैः परिकीर्तितम्। तत्र जीवनयोनिर्यः स च कैश्चिन्न कल्प्यते॥

मूलम्

अदृष्टादेव च प्राणसंचारं ते विदुर्बुधाः। प्रवृत्यभाव एव स्यान्निवृत्तिरिति केचन॥

मूलम्

निवृत्त्यभावः प्रवृत्तिरित्याशङ्का दुरुत्तरा। निवृत्तिर्यत्नभेदस्स्यादिति नव्याः विदुर्बुधाः॥