284 रसः

मूलम्

शृङ्गारादिरसाश्चापि बुद्धिभेदाः प्रकीर्तिताः ॥

टीका

साहित्यरत्नाकरः.[ ]

मूलम्

शृङ्गारवीरबीभत्सरौद्राद्याः स्यू रसा दश । बुद्धेरात्मस्वरूपत्वे त्वात्मैव रस उच्यते ॥

मूलम्

बुद्धेरात्मगुणत्वे तु गुणा एव रसा मताः । बुद्धेश्चित्तस्वरूपत्वे सत्वोद्रेको रसो भवेत् ॥

मूलम्

बुद्धेस्स्वयंप्रकाशत्वे स्वयंवेद्यो रसो मतः । बु्द्धेर्मानसपक्षे तु सोऽपि मानस उच्यते ॥

मूलम्

बुद्धिर्यद्यनुमेया स्यात्तदा चानुमितो रसः । एवं सिद्धान्तभेदेन रसतत्त्वं विकल्प्यते ॥

मूलम्

बुद्धेः प्रपञ्चः प्रामाण्यवादे सम्यग्विचिन्त्यते । सुखदुःखेच्छादयस्तु गुणास्स्युर्बुद्धिसात्कृताः ॥