मूलम्
देहधातुविशेषो वा विकासो वाऽस्य कश्चन। ज्ञानमित्येव वक्तव्यं वरं धर्मिप्रकल्पनात्॥
टीका
स. सि.[2-1]
मूलम्
हृदयस्थः पित्तभागः प्रकाशः इति वैद्यकम्। एवं चार्वाकसिद्धान्ते बुद्धिवस्तु विविच्यते॥
मूलम्
बौद्धा विदुश्चित्तचैत्तमान्तरं बुद्धिलक्षणम्। चित्तं ज्ञानं चैत्तमेतत् रागाद्यं बहुधा स्थितम्॥
मूलम्
तार्किकाः सुखबुद्ध्याद्यनष्टावात्मगुणान्विदुः। नियमित्तकारणान्यत्वमपि कार्यस्य भेदकम्॥
मूलम्
तद्भेदात्सुखदुःखाद्याः न विज्ञानात्मका मताः। सर्वं सुखं ज्ञानपूर्वं न ज्ञानं ज्ञानपूर्वकम्॥
मूलम्
गर्भादौ च प्रबोधादौ प्रथमज्ञानसंभवात्। सांख्याः बुद्धिपरीणामाः बुद्ध्याद्या इति जानते॥
मूलम्
सर्वेऽप्यात्मपरीणामाः इत्याहुः शाबराः पुनः। कौमारिला आर्हताश्च तथौपनिषदा अपि॥
मूलम्
कैश्चित्तु धर्मभूतस्य ज्ञानस्य परिणामिनः। एते विकारास्तेनात्मा सुखाद्याधार इष्यते॥
टीका
वे. सं.[73]
मूलम्
आनुकूल्यप्रातिकूल्योपेक्षावस्थाविभेदतः। बुद्धि्रेव सुखं दुःखंमुपेक्षेत्यपि शब्द्यते॥
मूलम्
इच्छाद्वेषादिकं बुद्धेः प्रपञ्चः स्यादिहन्यथा। ईर्ष्याभ्यसूयाकरुणाभयधैर्यबलादयः॥
मूलम्
इच्छाद्वेषादिवत्किं वा न भवेयुः पृथग्गुणाः । केचिदिच्छाप्रभेदं तद्रागद्वेषादिकं विदुः ॥
मूलम्
रागोऽनुकूलविषयोपादानेच्छेति निर्णयः । प्रतिकूलजिज्ञासा तु द्वेष इत्याभिधीयते ॥
मूलम्
तावेव तीव्रभावेन कामक्रोधाविति स्थितौ । अशनायापिपासाद्यास्सहस्त्रं स्युरिहान्यथा ॥
मूलम्
तस्माद्द्वेषो विशेषः स्यादिच्छाया इति निर्णयः ।