मूलम्
लौकिकोऽलौकिकश्चेति संस्कारो द्विविधो मतः। वेगाजिलक्षणस्त्वाद्यः चोदनालक्षणः परः॥
मूलम्
वेगः स्तितस्थापकश्च भावनेति त्रिधाऽऽदिमः। मूर्तमात्रे तु वेगस्स्यात् कर्मजः वेगजः क्वचित्॥
मूलम्
स्थितस्थापकसंस्कारः क्षित्यादिषु मतः क्वचित्। भावनाख्यस्तु संस्कारः जीववृत्तिरतीन्दरियः॥
मूलम्
उपेक्षाऽनात्मकस्तस्य निश्चयः कारणं भवेत्। अदृष्टं सहदृष्टं च सदृक्दृष्टमिति त्रिधा॥
मूलम्
सहकारी स्मृतेर्हेतोस्संस्कारस्य प्रदर्श्यते। इति तार्किकसिद्धान्तं शक्त्याऽपह्नुवते परे॥
मूलम्
संस्कारः ज्ञानशक्तिः स्यात् कर्मशक्तेर्विलक्षणा। वेगः कर्मविशेषेऽन्तर्भवतीत्यपरे विदुः॥
मूलम्
संस्थानस्य प्रभेदोऽयं स्थितस्थापकतेत्यपि। मीमांसकाः कर्मततिं वेगमाहुर्निरन्तराम्॥
मूलम्
शरादौ प्रथमं वेगः नोदनेन प्रजायते। ततश्च कर्मसंतानः चरमोत्तरदेशजात्॥
मूलम्
संयोगाद्वेगनाशस्स्यात् इति वैशेषिता विदुः। कर्मसंततिवद्वेगसंततिं गौतमा विदुः॥
मूलम्
चोदनागम्यसंस्कारो बहुधा प्रतिपादितः। तद्धेतुर्गुणकर्मेति तच्छक्तिरिति केचन॥
मूलम्
मीमांसकास्तु संस्कारं तं द्रव्यादिगतं विदुः। नैयायिकाः पुनः प्राहुः तं वै पुरुषसंगतम्॥
मूलम्
स्वभाववादावकाशः वस्तुवादे प्रसज्यते। आत्मवादेऽदृष्टवादः विस्पष्टः कुसुमाञ्जलौ॥
टीका
न्या. कु.[1 स्त.]
मूलम्
केचित्तु ज्ञानसंस्कारः कर्मसंस्कारः इत्यपि। विभजन्ते च तत्राद्यो भावनान्तर्गतो भवेत्॥
मूलम्
अन्त्यो वीणामृदङ्गादिवाद्यवादनकौशलम्। सिल्पादिकौशलं वा स्यात्तत्सर्वं शक्तिसात्कृतम्॥
मूलम्
संस्कारो वासना चैव भावनेत्यपि गीयते। पूर्वप्रज्ञा प्रत्यभिज्ञा श्रद्धा चैवास्य विस्तरः॥
मूलम्
स एव ह्यात्मनो रूपं मुख्यमित्यभिधीयते। तेनाभ्युदयिकं नैश्श्रेयसं चाहुः विपश्चितः॥