281 स्नेहः

मूलम्

चूर्णादिपिण्डीभावस्य हेतुः स्नेहो गुणान्तरम्। जलमात्रे त्वसाविष्टऋ नान्यथासिद्धिरन्यतः॥

मूलम्

तैलादौ पार्थिवे तस्य प्रकर्षाद्दाहहेतुता। इति तार्किकसिद्धान्ते प्रत्युक्तिरियमुच्यते॥

मूलम्

अग्नौ स्नेहविरुद्धं यद्रौक्ष्यं तत्स्याद्गुणान्तरम्। द्रव्यस्वभाववादस्तु सुलभस्सर्वसम्मतः॥