280 द्रवत्वम्

मूलम्

आद्यस्यन्दनहेतुस्तु द्रवत्वमभिधीयते। सांसिद्धिकं द्रवत्वं स्यात् नैमित्तिकमथापरम्॥

मूलम्

सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः। पृथिव्यां घृतजत्वादौ सुवर्णादौ च तेजसि॥

मूलम्

मसृणत्वं तद्विशिष्टं गुरुत्वं स्यन्दयेज्जलम्। माषादिषु तथा दृष्टेः द्रवत्वं नातिरिच्यते॥

मूलम्

मसृणत्वं त्ववयवव्यूहः संयोगलक्षणः। इति सिद्धान्तयन्त्यन्ये तर्को न प्रतितिष्ठति॥