मूलम्
गुरुत्वमाद्यपतनासमवायितया गुणः। अतीन्द्रियं चाम्बुभूम्योः कल्प्यते किल तार्किकैः॥
मूलम्
नव्यास्तन्नोपगच्छन्ति वस्त्वधोदेश एवहि। गुरुत्वबुद्धिविषयः ततस्स्यात्पतनादिकम्॥
मूलम्
ततश्चांशप्रभेदः स्याद्गुरुत्वं ततएव हि। मारुतः पवते वायुः पोपवीतीति कथ्यते॥
मूलम्
वह्निः ज्वलति सप्तार्चिः जाज्वल्यत इतीर्यते। एवं जले च भूमौ च क्रियासमभिहारतः॥
मूलम्
पततीति प्रयोगस्स्यात् अंशभेदनिबन्धनः। लघुत्वमतिरिक्तं च किंवा न स्याद्विभागवत्॥
मूलम्
तिर्यगूर्ध्वाधोगुरूणीत्याहुः केचिद्विधात्रम्। तानि वाय्वग्निवारिणि क्रमादिह निदर्शनम्॥
मूलम्
गुरुत्वतिशयोऽप्येषः यदाक्रमणमुच्यते। सांख्यैस्तमःकार्यभूतं गुरुत्वमभिधीयते॥
मूलम्
पृथिवीजलवृत्योतत्पतनस्य प्रयोजकम्। तेजःपवनयोरूर्ध्वगतिहेतुर्लघुत्वकम्॥
मूलम्
सत्त्वकार्यं ह्येषितव्यमिति ताम्प्रयुदीर्यते। अदृष्टकारितत्वोक्तिः पृथिव्यागावपीष्यताम्॥