278 परत्वापरत्वे

मूलम्

परत्वं चापरत्वं च दैशिकं कालिकं द्वयम्। आद्यं संयुक्तसंयोगभूयस्त्वाल्पत्वधीकृतम्॥

टीका

स. सि.[5-58]

मूलम्

कालिकं सूर्यचलनभूयस्त्वाल्पत्वधीकृतम्। भूयस्त्वाल्पत्वबुद्धी ते अपेक्षाबुद्धिसंज्ञिते॥

मूलम्

ताभ्यामेवान्यथासिद्धिं तयोः केचिद्विदुर्बुधाः। बुद्ध्यधीने हि विज्ञानवादशङ्का प्रसज्यते॥

मूलम्

विद्यावृत्ताभिजात्यादौ परताऽपरताऽपिच। गुणे गुणमजानाद्भिः अखिलैर्व्यपदिश्यते॥

मूलम्

द्विपरत्वादयो न स्युः द्विपृथक्त्वादिवत्पुनः। नीलाविमौ द्वावितिवत् द्वविमौ च पराविति॥

मूलम्

सदाऽनवधिकत्वेन प्रतीतेरिति गम्यताम्। द्वित्वैकार्थत्वतश्चापि तेषां स्यादन्यथातिः॥

मूलम्

परत्वादिगुणाभावे चाभावो देशकालयोः। तद्विस्तरः कालवादे स्थित इत्युपरम्यते॥