277 विभागः

मूलम्

संयोगयुक्तिरेवात्र विभागेऽपि विपर्ययात्। शक्याऽनुसंधातुमिति क्रियते नात्र विस्तरः॥

टीका

स. सि.[5-56]

मूलम्

संयोगाभावरूपश्चेद्विभक्त इति शेमिषी। भवेद्विज्ञानवादेन सर्वापह्नसंभ्रमः॥

मूलम्

विभागो यदि संयोगनाशः किं न विपर्ययः। मिथो विनिगमाभावे तूभयं चेह निर्भयम्॥

मूलम्

पूर्वसंयोगनाशश्चेदौत्तरो योग उच्यते। विभक्तसंयुक्तधियां सांकर्यं दुर्निवारणम्॥