276 संयोगः

मूलम्

अप्राप्तिपूर्विका प्राप्तिः संयोगस्सार्वलौकिकः। अबाधिता प्रतीतिश्च संयुक्त इति तद्वति॥

टीका

स. सि.[5-52]

मूलम्

नान्यथाऽवयवी सिद्ध्येत् उत्पत्तिरपि पाकजा। न स्याच्च जगतः सृष्टिः तथा यन्त्रादिकल्पना॥

मूलम्

आलानादिविनिर्णयः संसर्गश्चेन्द्रियार्थयोः। संबन्धो बीजजलयोः शौचाशौचव्यवस्थितिः॥

मूलम्

न स्याच्छब्दोत्पत्तिरपि जगत्स्यादपि निश्चलम्। विभोर्न च्छिद्रमणुना नाणूनां विभुना च तत्॥

मूलम्

यथाप्रमाणं संबन्धमात्रमेव तयोर्भवेत्। न विभज्यते गच्छद्भिः न विहन्ति गतिं च यत्॥

मूलम्

अस्पर्शत्वात्तथाभूतं विभु वाऽविभु वाऽस्तितहि कौमारिलास्त्वजमपि संयोगं श्रोत्रशब्दयोः॥

मूलम्

विभ्वोरिच्छन्ति तत्पक्षे स्याद्विभागोऽपि तादृशः। इत्याक्षेपस्तार्किकाणां नचेष्टापत्तिसंभवः॥

मूलम्

विरोधस्य परित्यागप्रसङ्गादिति तात्त्विकाः। इति वैशेषिकाः प्राहुरेषा सौगतपद्धतिः॥

मूलम्

असिद्धः क्षणभङ्गेन सोयोगस्स्यात्सहेतुकः। स्याच्चाविरलदेशस्योत्पत्त्या वा सिद्धिरन्यथा॥

मूलम्

तस्मात्योगसंबन्धो विकल्प इति ते विदुः। संबन्धतत्त्वापलापः प्राग्रूपं शून्यसंपदः॥

मूलम्

नैरन्तर्यं त्वान्तरालाभावस्संयोग एव चेत्। अभावस्स्यादसन् तुच्छः न कार्ये नापि कारणम्॥

मूलम्

संयोगेऽन्तर्भावयन्ति पदार्थं कर्मलक्षणम्। द्रव्योरेव संयोगनियमं न प्रचक्षते॥

मूलम्

अतीतेऽनागते चापि संयोगस्यास्ति संभवः। समकालियोरेव संयोग इत नेष्यते॥