मूलम्
पृथक्त्वं भेद इत्यन्ये वैशिष्ट्यमिति केचन। परे वैधर्म्यमित्याहुः गुणान्तरमितीतरे॥
टीका
स. सि.[5-51]
मूलम्
अयमस्मात्पृथगिति प्रतीतेः भिन्न इत्यसौ। विलक्षणा प्रतीतिः स्यादित्याहुर्वृद्धतार्किकाः॥
मूलम्
वैशिष्ट्यस्य पृथक्च्वे तु व्योम्नि शब्दविशेषिते। व्यवहारः पृथक्त्वेनापाद्यते प्रागपेक्षया॥
मूलम्
वैधर्म्यस्य पृथक्त्वे तु पाकरक्ते घटे पुनः। श्यामाद्घटात्पृथगिति व्यवहारः प्रसज्यते॥
मूलम्
पृथक्त्वं भेद एवेति नव्यतार्किकनिर्णयः। भेद एव पृथक्त्वं स्यात् भिन्नः पृथगसाविति॥
मूलम्
सामानाधिकरण्येन व्यपदेशो न विद्यते। पृथक्त्वं लक्षणं भेद इत्यनर्थान्तरं विदुः॥
मूलम्
भेदोऽप्यसाधारणोऽसौ धर्म एवेति तात्त्विकाः। एकद्वित्रिपृथक्त्वादि संख्यावदिति निर्णयः॥
टीका
श्री.भा. महासिद्धान्तः[ ]
मूलम्
वैशेषिकविशेषाणां पृथक्त्वेनान्यथा गतेः। नित्यानां निष्प्रमाणोऽयं विशेष इति वैदिकाः॥