मूलम्
मानव्यवहृतेर्हेतुः परिमाणमितीर्यते । महद्दीर्घमणु ह्रस्वमिति तत्स्याच्चतुर्विधम् ॥
टीका
स. सि.[5-45]
मूलम्
परमाणुरणुः ज्ञेयः त्र्यणुकाद्यं महत् मतम् । व्द्यणुकं स्यादणु ह्रस्वं तदूर्ध्वं दीर्घमिष्यते ॥
मूलम्
विभु्द्रव्याणि परममहान्तीति विनिर्णयः । परमाणौ विभौ चापि मानं नास्तीति केचन ॥
मूलम्
परिमाणं तु परितो भाववेष्टनलक्षणम् । तच्चापरिमिताख्यातेः विभौ नान्तीति केचन ॥
मूलम्
देशव्याप्तिविशेषः स्यात् परिमाणमितीतरे । राश्यादिषु महत्त्वादिः देशसंबन्धः एव हि ॥
मूलम्
आर्जवेनेकदिग्योगो दीर्घतेत्येवमूह्यताम् । वक्रत्वं चतुरश्रत्वं कुण्डलत्वादिकं तथा ॥
मूलम्
परिमाण् हि परतो मानमित्यभिधीयते । आकाशधातुरेवायं स तुच्छ इति सौगताः ॥
मूलम्
अणूनां स्यात्परिमितिराकाशमिततैव हि । तस्मादवच्छेदभेदान्महदित्यादिधीरिति ॥
मूलम्
विभुत्वं तर्हि सर्वेषां स्यादित्याद्यते बुधैः। परस्परविरोधे हि न प्रकारान्तरस्थितिः॥
मूलम्
सर्वप्रकारपरिमित्यभावो विभुतैव हि। सर्वोत्कृष्टपरीमाणं विभुत्वमिति केचन॥
मूलम्
अवस्थैव परीमाणं प्रकृतेरिति कापिलाः। उपाधिभिः पार्श्वभेदः परमाणोरितीतरे॥
मूलम्
स प्रदेशां निरंदेशेऽपि स्वभावादिति चार्हताः। उपाधिनामुपाधिश्चेत् भवेदेवानवस्थितिः॥