मूलम्
एकत्वं त्वसहायत्वं मुख्यत्वं वाऽन्यतां जगुः । भावत्वेनैव वेद्यत्वात् अमुख्येष्वपि दर्शनात् ॥
टीका
स. सि.[5-41]
मूलम्
स्वस्मिन्नप्यैक्यबुद्धेश्च त्रितयं नैक्यमिष्यते । संघातैक्यं तु राश्यादाविव स्यादौपचारिकम् ॥
मूलम्
तस्मादसंघातसंस्थमेकत्वं निरुपाधिकम् । अपेक्षाबुद्धिभेदैः स्यात् द्वित्वादीनां निराक्रिया ॥
मूलम्
इति सर्वार्थसिद्धौ हि वेदान्ताचार्यनिर्णयः । अभूदैक्यभ्रमो भेदादर्शनादिति वेदनात् ॥
मूलम्
ऐक्यं स्वसत्त्वमेवेति निरणैषुः परे बुधाः । स्वरूपादतिरिक्तं तत्पक्षयोरभयोरपि ॥
मूलम्
यतः स्वरूपे ज्ञानेऽपि द्वित्वव्यामोहदर्शनम् । प्रामाणिकः स्वभावो यः तत्स्वरूपमिति स्थितम् ॥
मूलम्
अभिज्ञाग्राह्यमेकत्वमन्यत् तस्माद्विलक्षणम् । प्रत्यभिज्ञाग्राह्यमिति विपश्चिद्भिर्निरूपितम् ॥
मूलम्
देशकालादिभेदेन भेदो यस्तु प्रसज्यते । तद्विरोध्यैक्यमेतत्स्यादिति तल्लोकसाक्षिकम् ॥
मूलम्
तेनैव क्षणभङ्गं तं निरुधन्ति विपश्चितः । प्रत्यभिज्ञाविचारस्तु क्षणवादे प्रतिष्ठितः ॥