मूलम्
सर्ववस्तुषु संख्याया व्यवहारो हि दृश्यते। तेन संख्याऽतिरिक्तोऽर्थः सा चैकत्वादिलक्षणा॥
मूलम्
बहुत्वं नातिरिक्तं स्यात्किंतु त्रित्वादिलक्षणम्। इति प्राभाकराः प्राहुः अथ कौमारिलाः पुनः॥
मूलम्
वैशेषिकादिवत्संख्यां गुण इत्यभिमन्वते। द्रव्य एवहि दृश्यन्ते व्यवहारस्तु भूयसा॥
मूलम्
संख्यायामपि संख्यायाः व्यवहारस्य दर्शनात्। अनवस्था प्रसज्येत यदि संख्याऽतिरिच्यते॥
मूलम्
गुणादावपि संख्यायाः व्यवहारस्य दर्शनम्। एकार्थसमवायादिसंसर्गादन्यथा भवेत्॥
मूलम्
अपेक्षा बुद्धिरेव स्यात्संख्या द्वित्वादिलक्षणा । अपेक्षाबुद्धिजन्यं तत् इति प्राञ्चः प्रचक्षते ॥
मूलम्
संघातः पुनरेकत्वमिति संख्यापलापिनः । ऐक्यं भेदाभावरूपमिति भूषणनिर्णयः ॥
मूलम्
स्वरूपभेद एव स्यात् द्वित्वाद्यपि च तन्मते । वस्तुतस्सर्ववस्तूनि संख्या ग्रसितुमर्हति ॥
मूलम्
वनादौ नियतापेक्षाबुद्ध्यभावेऽपि दृश्यते । बहुत्वं न शतत्वादि तद्बहुत्वातिरिक्ताता ॥
टीका
न्यायकन्दळी.[ ]
मूलम्
इति श्रीधरसिद्धान्तः तत्र चोदयनः पुनः । सेनेयं महती याति सैषा सेना महत्तरा ॥
मूलम्
इत्यादिव्यवहारेण ह्यतिरेकं निषेधति । त्रित्वाद्येकाधिकरणं बहुत्वमिति शंकरः ॥
टीका
उपस्कारवृत्तिः.[ ]