मूलम्
स्पर्शस्त्वगिन्द्रियग्राह्यस्स च त्रिविध इष्यते। अनुष्णाशीतशीतोष्णभेदादिति हि तार्किकैः॥
मूलम्
वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः। पृथिव्यपि तथैवेति सर्वैरभ्युपगम्यते॥
मूलम्
आयुर्वेदे शीतगुणो मारुतस्संप्रकीर्तितः। तच्चिकित्सानियत्यर्थमिति सर्वार्थसिद्धिकृत्॥
टीका
स. सि.[5-27]
मूलम्
संयोगभेदे एवायं स्पर्श इत्यपरे विदुः। संबन्धवादे संयोगविचारेऽस्त्यस्य विस्तरः॥
मूलम्
काठिन्यमार्दवाद्यास्स्युः स्पर्शा हि विविधा भुवि। तेषां संयोगरूपत्वे का शीताद्युपकारिता॥